|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.74. अध्यायः 074
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति स्त्रीणां दुश्चरितकथनम्॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः।
मोहेन परमाविष्टा देवदृष्टेन कर्मणा॥ 13-74-1(84387)
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्।
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते॥ 13-74-2(84388)
कथमासां नराः सङ्गं कुर्वते कुरुनन्दनः।
स्त्रियो वातेषु रज्यन्ते विरज्यन्ते च ताः पुनः॥ 13-74-3(84389)
इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम्।
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि॥ 13-74-4(84390)
भीष्म उवाच। 13-74-5x(7016)
एत्वा हि स्वीयमायाभिर्वञ्चयन्तीह मानवान्।
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः॥ 13-74-5(84391)
गावो नवतृणानीव गृह्णन्त्येता नवन्नवम्॥ 13-74-6(84392)
शम्बरस्य च या माया माया या नमुचेरपि।
बलेः कुम्भीनसेश्चैव सर्वास्तां योषितो विदुः॥ 13-74-7(84393)
हसन्तं प्रहसन्त्येता रुद्रन्तं प्ररुदन्ति च।
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः॥ 13-74-8(84394)
`यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम्।
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत्॥' 13-74-9(84395)
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः।
स्त्री बुद्ध्या न विशिष्येत तास्तु रक्ष्याः कथं नरैः॥ 13-74-10(84396)
अनृतं सत्यमित्याहुः सत्यं चापि तथाऽनृतम्।
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह।
`दोषास्पदेऽशुचौ देहे ह्यासां सक्तास्त्वहो नराः'॥ 13-74-11(84397)
स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन्।
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै॥ 13-74-12(84398)
संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु।
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः॥ 13-74-13(84399)
इमाः प्रजा महापाहो धार्मिक्य इति नः श्रुतम्॥ 13-74-14(84400)
सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा।
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान्॥ 13-74-15(84401)
तथा ब्रूहि महाभाग कुरूणां वंशवर्धन।
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन। 13-74-16(84402)
कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि॥ ॥ 13-74-17(84403)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःसप्ततितमोऽध्यायः॥ 74 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-74-7 कुहकानि च वार्ष्णेय सर्वास्ता इति ट.थ.पाठः॥ 7-74-13 एताः पूजिता दिक्कृता वा तुल्यवद्विकारं जनयन्तीत्यर्थः॥ 7-74-14 इमाः स्त्रीरूपाः धार्मिक्य इति श्रुतं सावित्र्यादिषु दृष्टं च॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|